पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्री ॥

॥ ललितात्रिशतीभाष्यम् ॥

वन्दे विघ्नेश्वरं देवं सर्वसिद्धिप्रदायिनम् ।
वामाङ्कारूढवामाक्षीकरपल्लवपूजितम् ॥ १ ॥

पाशाङ्कुशेक्षुसुमराजितपञ्चशाखां
 पाटल्यशालिसुषुमाञ्चितगात्रवल्लीम्
प्राचीनवाक्स्तुतपदां परदेवतां त्वां
 पञ्चायुधार्चितपदां प्रणमामि देवीम् ॥ २ ॥

लोपामुद्रापतिं नत्वा हयग्रीवमपीश्वरम् ।
श्रीविद्याराजसंसिद्धिकारिपंकजवीक्षणम् ॥ ३ ॥

विस्तारिता बहुविधा बहुभिः कृता च
 टीकां विलोकयितुमक्षमता जनानाम् ।
तत्रत्यसर्वपदयोगविवेकभानुं
 तुष्ट्यै करामि ललितापदभक्तियोगात् ॥ ४ ॥

U VIT 11