पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
ललितात्रिशतीभाष्यम् ।


कल्याणगुणशालिनी, अस्मिन् समासे देवतायाः पराधीनगुणवत्व स्वतः शुद्धचैतन्यत्वं च स्फुरितम् । कल्याणगुणैः शाल्यत इत्यत्र गुणवत्वमात्रं देवतायाः द्योत्यते । तस्योपाधिकत्वं वैदिकमपि स्तुतौ तदप्रकटनं न दोषाय । यदि गुणानामारोपितत्वेन तत्संकीर्तनस्य भेदबुद्धिसमये तत्कृपाप्राप्तिहेतुत्वेनावश्यकत्वम्, तथापि तदपवादपुरःसरं शुद्धचैतन्याभेदध्यानरूपमुख्यभजनं मुख्यमेवेति संपादयितुं स्वगुरूपदिष्टमार्गेण सुकरमेवेति नातिविस्तार्यते ॥ ॐ कल्याणगुणशालिन्यै नमः ॥

कल्याणशैलनिलया । शिलानां विकारः शैलः शिलाघन इत्यर्थः, कल्याणं सुखमेव शैलः घनीभूत इत्यर्थः, तस्मिन् कल्याणशैले स्वस्वरूपे आनन्दघने निलयति तिष्ठतीति कल्याणशैलनिलया, 'स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नीति होवाच' इति श्रुतेः, देवदत्तः स्वस्मिन्नेव स्वयं वर्तते इति लौकिकप्रयोगाच्च, देवतायाः स्वस्वरूपे स्वावस्थानं युज्यत इति । कल्याणमेव शैलवत् घनीभूतं कल्याणशैलः आनन्दमयकोशः कल्याणशैलो निलयः यस्याः सा इति बहुव्रीहिसमासः न विरुद्धः, ब्रह्म पुच्छं प्रतिष्ठा' इति उक्तश्रुतिप्रामाण्यात् । अथवा कल्याणशैलः महामेरुः निलयं गृहं