पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
ललितात्रिशतीभाष्यम् ।

नन्तं ब्रह्म' इत्यादिब्रह्मस्वरूपलक्षणवाक्येषु वाच्यार्थप्राधान्येन विधिमुखेनैव ब्रह्मप्रतिपादने अतद्व्यावृतिरूपनिषेधमुखेन लक्षणार्थप्राधान्येन ब्रह्मस्वरूपलक्षणप्रतिपादनायोगेन तत्त्वमसिवाक्ये वैशिष्ट्यं वाक्यार्थः संभवतीति चेत्, नेत्याह-एवमित्यागमाबोध्येति । एवं विशिष्टतया- इति प्रत्यक्षसिद्धत्वेन आगमैर्वेदैः ज्ञापनीया न भवति । आनन्दशब्दस्यानन्दमात्रवाचकस्य तत्प्रचुरे सभावितेषद्दुःखे जीवे लक्षणायां त्रयो दोषाः । पारमार्थिकभिन्नसत्ताकवस्त्वन्तराभावेन तत्त्वपदवाच्यार्थनिष्ठविशेषणद्वयस्य अन्योन्यविरोधवत्तया तमःप्रकाशवद्वैशिष्ट्यायोगे अखण्डार्थों वाक्यार्थः संपद्यते । तथा च स्वरूपलक्षणवाक्येषु वाच्यार्थस्य 'अतोऽन्यदार्तत्' इति श्रुत्या मिथ्यात्वप्रतिपादनात् निषेधमुखेनैव अतद्व्यावृत्तिस्वरूपप्रतिपादनेन लक्षणवाक्यानि समञ्जसानि भवन्तीति भावः ॥ ॐ एवमित्यागमाबोध्यायै नमः ॥
 एकभक्तिमदर्चिता। एकस्मिन्नभेदे जीवब्रह्मणोः भक्तिः भजनीयत्वबुद्धि तत्परिजिज्ञासा येषां अस्ति, तैरर्चिता पूजिता इत्येतदुपलक्षणं स्तुता ध्याता नमस्कृतेत्येवमादीनाम्, 'यन्मनसा ध्यायति तद्वाचा वदति तत्कर्मणा कराति'