पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
ललितात्रिशतीभाष्यम् ।

इति श्रुतेः मानसिकव्यापारपूर्वकानि हि इतरेन्द्रियकर्माणि भवन्तीत्यभिप्रायः । अथवा, अस्मिन् संसारमण्डले तत्स्वरूपपरिज्ञातारः ये केचन, तेषां भजनीयत्वाध्यवसायो भक्तिः तदेकप्रवणता सगुणब्रह्मविषया अष्टविधा, तैरेकभक्तिमद्भिरर्चिता अन्तर्यागबहिर्यागमहायागप्रकारैः पूजिता इत्यर्थः ॥ ॐ एकभक्तिमदर्चितायै नमः ॥
 एकाग्रचित्तनिर्ध्याता । एकम् ऐक्यरूपम् अग्रम् आलम्बनं विषयः विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयवृत्तिकाभिः निरन्तरव्याप्तिविषयीकृतचैतन्यं यस्य तत्तादृशं चित्तमन्तःकरणं येषां तैः । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधीनां परिपाकातिशयेन पश्चात्संपद्यमानासंप्रज्ञातसमाधेः त्रिविधा भूमिका- ऋतंभरा, प्रज्ञालोका, प्रशान्तवाहिता चेति । ऋतं यथाभूतं सच्चिदानन्दलक्षणं ब्रह्म भरति वृत्तिव्याप्त्या विषयीकरोतीति प्रथमा तथा, आत्मन्येव वशं नयेत्' इति भगवद्वचनात् । प्रज्ञालोका । प्रज्ञायाम् अखण्डाकारवृत्तौ नित्यनिरन्तराभ्यासेन परिपाकं नीतायां ब्रह्मविषयिण्याम् आवरणाभिभवं कुर्वन्त्यां सत्याम्, 'प्रज्ञा प्रतिष्ठा' इत्यादिश्रुतेः, प्रज्ञायाः आलोकः अभिव्यक्तिः साक्षात्कारः यस्यां सम्पद्यते सा का-