पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
ललितात्रिशतीभाष्यम् ।

श्रवणमनननिदिध्यासनेन साक्षात्कृता इत्यर्थः ॥ ॐ एकाग्रचित्तनिर्ध्यातायै नम ॥
 एषणारहितादृता । एषणा इच्छा । सा त्रिविधा । एतल्लोकजयाय पुत्रैषणा । पितृलोकजयसाधनकर्मसंपादनाय वित्तैषणा । उपासनादिना जयसाधनं देवलोकः, तस्मिन्नेषणा लोकैषणा । आभिः रहितैः अनाकृष्टचित्तैः, 'ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति' इति श्रुतेः । एषणारहिताः ये परमहंसपरिव्राजकाः संन्यासिनः तैः आदरेण अतिशयप्रेम्णा स्वस्वरूपेण आदृता अङ्गीकृता निरन्तरध्यानेन साक्षात्कृता सती मोक्षरूपतया प्राप्तेत्यर्थः ॥ ॐ एषणारहितादृतायै नमः ॥

एलासुगन्धिचिकुरा चैनःकूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७ ॥

 एलासुगन्धिचिकुरा । एलावदिति दृष्टान्तप्रदर्शनं सौगन्ध्यमात्रसद्भावप्रदर्शनेनाकल्पितदिव्यपरिमलसद्भावे हेतुः, न तु प्राकृतत्वदशनपरम्, ब्रह्मणः स्वाधीनमायत्वात् । तद्वत्सुगन्ध इति साजात्यमात्रं व्यज्यते, गुणमात्रादानेन सर्वत्र पदार्थान्तरस्य दृष्टान्तीकरणात् । सुगन्धा येषां