पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
ललितात्रिशतीभाष्यम् ।

सन्तीति सुगन्धिनः तादृशाः चिकुराः कुन्तलाः सा तथा । स्वभावसिद्धदिव्यपरिमलशालिसर्वाङ्गसौरभ्यवती, चिकुरपदस्य उपलक्षणत्वादिति भावः ॥ ॐ एलासुगन्धिचिकुरायै नमः ॥
 एनःकूटविनाशिनी । एनसां पापानां कूटं समुदायः । आगामिसंचितप्रारब्धभेदेन समष्टिरूपेण दृढतर तत्त्वज्ञानेन विना अन्यस्य भोगमात्रस्य तद्विनाशकत्वावगमात् तेषां च कल्पकोटिकालं क्रमिकभोगप्रदानं विनोपायान्तरेण क्षयेप्सूनामात्मनाभेदज्ञानविषयतया चैतन्यं नाशयतीति तथा । एवंविदि पापं कर्म न श्लिष्यते, 'अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः इत्यादिश्रुतेः, 'अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि' इति स्मृतेश्च । अथवा एनांसि च तत्कारणीभूतं कूटं कपटवचनाभिधानं च तत्कारणं मायां च नाशयतीति तथा ॥ ॐ एनःकूटविनाशिन्यै नमः ॥
 एकभोगा । एकेन कामेश्वरेण साकं भोगः भुक्तिः भोगः स्वस्वरूपानन्दानुभवः यस्याः सा तथा । अथवा, एकस्य अज्ञानतत्कार्यस्य कार्यकारणरूपेण अभिन्नस्य तदधिष्ठानतया स्वसत्ताधायकत्वेन भोगः परिपालनं यस्याः सा । प्रपञ्चो