पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
ललितात्रिशतीभाष्यम्।

चैतन्यरूपाणां जाग्रदाद्यवस्थाभिमानिनाम् अखण्डब्रह्मसाक्षात्कारवेलायाम् अभेदानुभवात्, 'तत्त्वमसि' इति श्रुतेश्च 'एकमेवाद्वितीयम्' इति विशेषितत्वाच्च, एकश्चासावीश्वरश्च एकेश्वरः तस्य भावः तदैक्यं तत् प्रददातीति तथा । बहुषु विद्याधनवत्सु तेष्वेको विद्याधनवानित्युक्ते, तत्रत्यजननिष्ठविद्याभावे तदतिशयप्रतीतिवत् एकं च निरतिशयमणिमादिकमैश्वर्यं निःश्रेयसं प्रददातीति वा । यद्वा एकं मानुषं सर्वोत्कृष्टं सार्वभौमत्वादिलक्षणमभ्युदयसामान्यमैश्वर्यं प्रददातीति वा तथा ॥ ॐ एकैश्वर्यप्रदायिन्यै नमः ॥

एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८ ॥

 एकातपत्रसाम्राज्यप्रदा । आतपात् आ समन्तात् अध्यात्माधिदैवताधिभूतानि आ शब्दार्थः । तेभ्यो जाताः तापाः आतपाः । तपन्ति शोषयन्तीति तपाः, आतपेभ्यः त्रायते रक्षतीति आतपत्रं सर्वसंसारदुःखोपशमात्मकमात्मज्ञानम् । 'यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि' इति भगवद्वचनात् । अखिलदुःखनिदानाज्ञाननिवर्तकम् एकं लक्षणया अभिन्नब्रह्मविषयकमित्यर्थः । एकं च तत् आतपत्रं च अखण्डाकारज्ञानम्, तेन जायमानं यत्साम्राज्यं सम्राजो भावः सर्वोत्तम-