पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
ललितात्रिशतीभाष्यम् ।

नपेक्षतया अज्ञातार्थज्ञापकत्वेन प्रामाण्यमुररीकृतम् । इदमेव एतादृगेवेति प्रत्यक्षसिद्धार्थज्ञापने तासामनुवादकत्वेन सापेक्षत्वरूपमप्रामाण्यं प्रसज्येतेत्यभिप्रायः । ॐ ईदृगित्यविनिर्देश्यायै नमः ॥
 ईश्वरत्वविधायिनी । ईश्वरस्य भावः तस्यैक्यं विदधाति, आवरणविक्षेपशक्तिमदज्ञाननिवर्तकाखण्डाकारचैतन्यस्वरूपा सती भेदबुद्धिमात्रसंपादितैश्वर्यैक्यायोगभ्रमं निवर्तयतीत्यर्थः, 'स्वेन रूपेणाभिनिष्पद्यते' इति श्रुतेः । अथवा, ईश्वरत्वं नाम नानादेशविद्याधनोत्कर्षादिमत्त्वं तत्तत्प्राणिनिकायपुण्यप्रारब्धानुसारेण कर्मफलं प्रयच्छतीति वा । ईश्वरत्वविधायिन्यै नमः ॥
 ईशानादिब्रह्ममयी । ईशानतत्पुरुषाघोरवामदेवसद्योजाताख्यानि पञ्च ब्रह्माणि, तानि मयं स्वरूपमस्या अस्तीति सा तथा । अथवा, ईशानः आदिर्येषां ते तथा अधिकारिपुरुषाः विष्णुब्रह्मेन्द्रादयः, तेषामपि तत्तन्नामरूपविशिष्टानाम् अहंबुद्धिमताम् अन्तर्यामिस्वरूपेण बुद्धिप्रेरकसच्चिदानन्दस्वरूपपरब्रह्मानन्दप्रकाशात्मना स्फुरतीति तथा । ॐ ईशानादिब्रह्ममय्यै नमः ॥
 ईशित्वाद्यष्टसिद्धिदा । इशित्वमादिर्यासां तास्तथा । 'अ- SU VII 13