पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
ललितात्रिशतीभाष्यम् ।

ईक्षणसृष्टाण्डकोटिः । अण्डानां ब्रह्माण्डानां कोटयः असंख्याताः, भूतभाविकालभेदेन बहुवचनं कोटिशब्दस्य, अनादित्वात् संसारमण्डलस्य, ईक्षणेन भाविकार्यालोचनेन सृष्टाः अण्डकोटयो यया सा तथा, 'तदैक्षत बहु स्यां प्रजायेयेति' स ईक्षांचक्रे' आत्मा वा इदमेक एवाग्र आसीत् नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति स इमांल्लोकानसृजत' इत्यादिश्रुतेः, बाह्यकारणमनपेक्ष्य ऊर्णनाभ्यादिदृष्टान्तप्रदर्शनेन चेतनस्याभिन्ननिमित्तोपादानत्वप्रदर्शनयुक्तेः, 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादेश्चेति भावः । ॐ ईक्षणसृष्टाण्डकोटये नमः ॥
 ईश्वरवल्लभा । ईश्वरः कामेश्वरः वल्लभः पतिः यस्याः सा तथा । ईश्वराणां ब्रह्मविष्णुरुद्रादीनां तत्तन्निष्ठमहिमोत्कर्षरूपेण प्रीत्यतिशयविषयत्वेन अभ्यर्हितेत्यर्थो वा । ॐ ईश्वरवल्लभायै नमः ॥
 ईडिता । ईड स्तुताविति धातुपाठात् स्तुतिभिः विषयीकृता, वेदान्तैरिति शेषः, 'एष नित्यो महिमा ब्राह्मणस्य' इत्यादिश्रुतेः । ॐ ईडितायै नमः ॥
 ईश्वरार्धाङ्गशरीरा । ईश्वरस्य सच्चिदानन्दात्मकस्य शिवस्य अर्धं च तत् अङ्गं च अर्धाङ्गम् । आनन्दस्वरूपता शरीरं