पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
ललितात्रिशतीभाष्यम् ।

रोतीति वा, तदीयभार्यात्वेन नितरां तद्वश्येति यावत् ॥ ॐ ईश्वरप्रेरणकर्यै नमः ॥
 ईशताण्डवसाक्षिणी । ईशस्य तत्पदवाच्यार्थस्य ताण्डवं नर्तनवदप्रयत्नसंपाद्य लीलामात्रमित्यर्थः, जगत्सर्जनादिरूपा क्रिया चलनरूपकर्मत्वसामान्यात्, तस्य साक्षिणी असंसर्गप्रकाशरूपिणीत्यर्थः, 'असंगो न हि सज्जते' इति श्रुतेः । अथवा, ईशताण्डवस्य परमेश्वरनृत्यनाट्याभिव्यञ्जितचतुःषष्टिकलोपदेशस्य साक्षिणी । तदुक्तम्- नर्तनाद्धि परेशस्य चतुःषष्टिकलाजनिः' इति प्रदोषस्तोत्रे ईशताण्डवनर्तनवर्णनमतिस्फुटमिति नेह लिख्यते ॥ ॐ ईशताण्डवसाक्षिण्यै नमः ॥
 ईश्वरोत्संगनिलया । ईश्वरस्य स्वभर्तुः उत्सङ्गः ऊरू तौ निलयः यस्याः सा तथा ॥ ॐ ईश्वरोत्संगनिलयायै नमः ॥
 ईतिबाधाविनाशिनी । ईतिबाधा दैवाद्युपद्रवः, क्षुद्रजन्तुपीडा वा, तां विनाशयतीति तथा ॥ ॐ ईतिबाधाविनाशिन्यै नमः ॥

ईहाविरहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३ ॥