पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ललितात्रिशतीभाष्यम् । इन्द्रो देवश उपलक्षण सर्वदेवभेदानाम् । तैर्वन्दिता नमस्कृता । ॐ हरिब्रह्मेन्द्रवन्दितायै नम ॥ हयारूढासेविताङ्घ्रिहयमेधसमर्चिता। हर्यक्षवाहना हसवाहना हतदानवा । हयारूढासेविताङ्घ्रि । हयारूढानाम अश्वमात्रसेनानी शक्ति वश्यकरी । तया सेवितौ अङ्घ्री यस्या सा तथा ॥ ॐ हयारूढासेविताङ्घ्र्यै नम ॥ हयमेधसमर्चिता । हयमेधेन अश्वमेधेन समर्चिता पूजिता । पुरुषत्वादिप्रात्यै इलादिभिरित्यथ ॥ ॐ हयमेध समर्चितायै नम ॥ हर्यक्षवाहना। वाहयतीति वाहनम् , हयक्ष केसरी वाहन यस्या सा तथा । महालक्ष्मीरूपदुर्गेत्यर्थ ॥ ॐ इर्यक्षवाइनायै नम ॥ हसवाइना । हन्ति गच्छतीति हस सूर्य प्राणो वा, वाहनवत् आधारभूतप्रतीकमित्यर्थ , अभिव्यक्तिस्थानमिति यावत् , 'स यश्चाय पुरुषे। यश्चासावादित्ये । स एक ' इति श्रुते । अथवा, हसवाहना ब्राह्मीरूपेणेत्यर्थ ॥ ॐ इंस वाहनायै नम ॥