पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१४ ललितात्रिशतीभाष्यम् । हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता। हरिकेशसखी हादिविद्या हालामदोल्लसा ॥ हरिद्राकुङ्कुमादिग्धा । हरिद्राकुङ्कुमाभ्या उपलक्षण कस्तूरीपत्रादीनाम् । दिग्धा लिप्तेत्यर्थ ॥ ॐ हरिद्राकुङ्कुमादि ग्धायै नम ॥ हर्यश्वाद्यमरार्चिता । हर्यश्व सुरेश आदिर्येषाम् अम राणा तैरर्चिता किंकरतया नियामकत्वेन पूजितेत्यर्थ ॥ ॐ हर्यश्वाद्यमरार्चितायै नमः ॥ हरिकेशसखी । हरय हरिद्वर्णा केशा शिरोरुहा यस्य, 'हिरण्यश्मश्रुर्हिरण्यकेश ' इति श्रुते । तस्य सखी प्रयोज नमनपेक्ष्योपकारिणीत्यर्थ । यद्वा वर्णेन नीलेन हरिणा विष्णुना समा केशा अस्य सन्तीति सर्वाङ्गसुन्दरनित्ययौवनचि द्रूपसहितकामेश्वर , तस्य सखी ।। ॐ हरिकेशसख्यै नमः॥ हादिविद्या । लोपामुद्रापासितमनुरूपत्यर्थ ॥ ॐ हादि विद्यायै नम ॥ हालामदालसा । हालाया अमृतमथनाद्भूतवारुण्या मदेन उल्लासेन अलसा आरक्तनेत्रान्तरोमाञ्चादिचिह्नवती त्यर्थ ॥ ॐ हालामदालसायै नमः ।।