पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ललितात्रिशतीमाष्यम् । सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला । सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥ सकाररूपा । द्वितीयखण्डद्वितीयावयवत्वेन ज्ञापक यस्या सा तथा ॥ ॐ सकाररूपायै नमः। सर्वज्ञा । अलुप्तनित्यज्ञानस्वरूपेण सामान्यरूपेण सर्वं जानातीति सर्वज्ञा, “य सर्वज्ञ सर्ववित्' इति श्रुते ॥ ॐ सर्वज्ञायै नम ॥ सर्वेशी । सर्वस्य कार्यस्य अन्तर्यामिरूपेण ईष्टे प्रेरयती ति तथा ॥ ॐ सर्वेश्यै नमः ॥ सर्वमङ्गला । सर्वप्रकारेण शुद्धविशिष्टचैतन्यरूपेण मङ्ग ला परमानन्दस्वरूपा । अत्र बहुप्रीहेरविवक्षितत्वात् विषक्षिताया वा सुन्दरकायो राजत्यादिवत् समासार्थ । अथवा, सर्वेषा मङ्गल यस्या सा तथा । सर्वै प्रकारै ध्यानकीर्त नपूजानमस्काराद्यर्चनभक्तिजन्यकैङ्कर्यै जडानामपि मङ्गल सुख यस्या जायत सा तथा । सर्वेषामात्मरूपतया प्रतीय मान मङ्गल सुखस्वरूप यस्या सेति वा । सर्वशब्दवाच्य सर्वकारण शिव , तस्य मङ्गल सुख यस्या जायते सा तथा, सञ्चिन्मय शिव साक्षात्तस्यानन्दमयी शिवा' इति च