पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी । सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ।। सर्वानवद्या । सर्वैर्ज्ञानैश्वर्यादिगुणैरनवद्या | अवद्यानाम विद्यया हीना जडप्रकृति मिथ्या बाध्यमानत्वात् । तद्विलक्षणा सत्यज्ञानानन्दरूपत्वादनवद्या । सर्वेषा सर्वाभीष्टप्रापकत्वेन स्तुत्या वा ।। ॐ सर्वानवद्यायै नम ॥ सर्वाङ्गसुन्दरी । सर्वाणि च तानि अङ्गानि च अवयवा शिर पाण्यादय , तेष्वन्यूनातिरिक्तभाववत्त्वात् यथासामुद्रि कलक्षण तद्वत्त्वन सर्वाङ्गसुन्दरी । अथवा, सर्वेषामङ्गेषु शरीरेषु ब्रह्मस्वरूपतया अत्यन्तप्रेमविषयत्वेन सुन्दरपदार्थ वदविनाभाववाञ्छाविषयत्वात् तथा ॥ ॐ सर्वाङ्गसुन्दर्यै नम ॥ सर्वसाक्षिणी । सर्वेषा जडाना कार्याणा स्फूत्याधायक- त्वेन प्रकाशकर्त्री तथा । सर्वं साक्षादीक्षत इति वा तथा ॥ ॐ सर्वसाक्षिण्यै नम ॥ सर्वात्मिका । सर्वेषामात्मस्वरूपत्वात् । 'यच्चाप्नोति यदा दत्ते यच्चात्ति विषयानिह। यच्चास्य सतता भावस्तस्मादात्मेति गीयत' इति वचनातथा ॥ ॐ सर्वात्मिकायै नम ||