पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० ललितात्रिशतीभाष्यम् । सर्वभूषणभूषिता । सर्वात्मकत्वन थे ये प्राणिन यानि यानि भूषणालकारभोजनादीीन भाग्यवस्तून्यात्मार्थ सपा दयन्ति, तेषा सर्वेषा प्रत्यक्तया ते सर्वैर्भूषिता उपकृतेत्यर्थ , आत्मनस्तु कामाय सर्व प्रिय भवति' इति श्रुते । अथवा, सर्वदेवात्मकत्वेन सर्वभक्तजनस्य स्वस्वेष्टदेवताप्रीत्यर्थ भूष णभूषितत्वेन तथा । अथवा सर्वैर्भक्तजनै तत्तदवयवेषु भूषणैरारापिता, स्वस्या महाराशीत्वेन असगोदासीनस्व भावत्वादिति भाव । यद्वा, सवदेशकाललोकेषु भूषण तत्र तत्र भवै उच्चावचैभूषणैरारोपिता , हस्त्यश्वादिदहोपा- धिका सती तत्तदीयालकारादिषु जुगुप्मारहितेत्यर्थ । भूष यन्ति सर्वोत्तमत्वेन प्रतिपादयन्ताति भूषणानि वेदान्तम हावाक्यानि , सबै समस्तै गतिसामान्यात् एकतात्पर्येण भूषिता लक्षणया पर्यवसिता समन्विता वेत्यर्थ ॥ ॐ सर्वभूषणभूषितायै नम । ककारार्थी कालहस्त्री कामेशी कामितार्थदा । कामसजीवनी कल्या कठिनस्तनमण्डला ।। ककारार्था | ‘क ब्रह्म' इति श्रुत्या ककारस्य ब्रह्मार्थक त्वेन तव्यतिरिक्तस्यातदर्थस्य बाधितत्वात् ।। ॐकारा थाय नम ॥