पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । इति त्रिपुरतापनीये ॥ ॐ कान्तायै नमः ॥ कान्तिधूतजपावलि | जपाना जपापुष्पाणाम् , उपलक्षणम् अन्येषामारक्तवर्णानाम् , आवलि पशि दृष्टान्तत्वेन कविमि हत्प्रेक्षिता ! कान्त्या अप्राकृतस्वच्छपरमानन्दधिवासा धूसा परित्यक्ता प्राकृतत्वेन अल्पकान्तिमम्सया उपमायोग्यतया यया सा, 'न हि महान्तो नीचैरुपमीयन्ते' इति न्याया दिति भाव ॥ ॐ कान्तिधूतजपावल्यै नम ॥ कलालापा । कला चतु षष्टिकला आलापो व्यावहा- रिकशब्द यस्या सा तथा, 'वेदशास्त्रमयी वाणी यथा सा परदेवता' इति वचनात् । कल अव्यक्तमधुर सप्रयो जन आलाप सलापो यस्या सेप्ति वा तथा , भारती तथा' इति महापुरुषसामुद्रिकवचनात् ॥ ॐ कलालापायै नमः ॥ कम्बुकण्ठी । कम्बुशब्दन अन शङ्कनिष्ठरेखात्रय लक्ष्य ते । सद्वान्कण्ठो यस्या सेति तथा गुणनामेदम् ॥ ॐ कम्बुकण्ठ्यै नम ॥ करनिर्जितपल्लवा । करशब्देन करतल लक्ष्यते । पल्ल वशब्देन तमिष्टपाटल्य निग्धता लक्षणया इत्यर्थ । तथा अव्यक्ता