पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २२७ च अन्योन्यगुणयोर्जयपराजये, अर्थात्तद्वसोरपि तौ सिद्धावि- ति तन्नामोपपत्ति । 'विवाहश्च विवादश्च समयोरेव शोभते' इति वचनात् क्रतल तत्साभ्यध्वनिरनेन नाना कृत । करेण निर्जिता पल्लवा यस्या सा तथा ॥ ॐ करनिर्जित पल्लवायै नम ॥ कल्पवल्लीसमभुजा कस्तूरी तिलकाश्चिता । एकारा हसगतिहाटकाभरणोज्ज्वला ॥ 3 कल्पवल्लीसमभुजा । यथा दिव्यवृक्षा नन्दनोद्याने प्र सिद्धा तथा तदलकाराय वल्ल्यादयोऽपि कल्पयन्ति सपा दयन्तीति कल्पा , कल्पाश्च ता वल्ल्यश्च व्रतत्य ताभि समा भुजा हस्ता यस्या सा तथा । कविसप्रदायप्रात्या स्त्रीभुजाना वल्लीसाम्योक्तिरिति मन्तव्यम् । अत्र समपद स्वारस्येन तेषामपि तदवच्छिन्न चैतन्यद्वारा यथाप्रारब्ध चे तनवल्लोकवाञ्छितफलकतृत्वमिति ध्वनितम् । एकस्तथा सर्वभूतान्तरात्मा रूप रूप प्रतिरूपो बहिश्च' इति श्रुत्ते, 'तत्तदेवावगच्छ व मम तेजोशसभवम्' इति स्मृतौ च भगवता स्वकीयसश्चिदानन्दस्वरूपावस्थितिरेवोक्ता । अत एक परदेवीभुजाना नैव साम्योक्तिरिति शक्षा निरस्ता वेदि 4 4