पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २४१ स्वात् । द्वितीया भक्तिस्तु ब्रह्मसाक्षात्कारवता पुरुषेण येनैकभ क्तितया लब्धा, 'एकभक्तिविशिष्यते' इति स्मृते , तस्य सु लभा, स्वात्मरूपतया सदा ज्ञायमानत्वात् । 'ज्ञानी स्वात्मैव मे मतम्' इति गीतासु । अथवा, लब्धा प्राप्ता सत्यपि कण्ठ गतचामीकरवत् लब्धभक्तीना सुलभा सुखनानायासेन कष्टेन विना साध्यतया लाभ प्राप्तिर्यस्या सा तथा, 'भक्त्या मामभिजानाति' इति स्मृते ॥ ॐ लब्धमक्तिमुलभायै नमः।। लागलायुधा । शेषरूपतया हलायुधेत्यर्थ , 'अनन्त श्वास्मि नागानाम्' इति श्रीभगवद्वचनात् ।। ॐ लाडलायु धायै नमः ॥ लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदसमाराध्या लपटा लकुलेश्वरी ।। लमचामरहस्तश्रीशारदापरिवीजिता । लग्नौ करसबद्धौ धृतावित्यर्थ , लग्नौ चामरौ ययोस्तौ तादृशौ हस्तौ ययोस्ते श्रीश्च महालक्ष्मी शारदा च ते ताभ्या वीजिता परिवी जिता । अनादिकालादारभ्य परिचर्थया वीज्यमानेत्यर्थ ॥ ॐ लग्नचामरहस्तश्रीशारदापरिवीजितायै नमः ।। SUI 16