पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । श्चर्याविष्टसिद्धयभावप्रसङ्ग स्यात् । अव्यवहितपूर्वनाम्नान. भिव्यक्तस्वरूपस्यापि शब्दजालस्य एतद्बीजमात्रात्मनैवाङ्क- रितबीजार्थवत्तया पूर्वभावित्वमुक्तम् । इदानीमभिव्यक्ता सकस्वार्थकतया विवर्तवादमाश्रित्य वाचारम्भणाकारेण ना मरूपयवत्त्वमुच्यते । हींकारवीआर्थ सेन शब्देन लक्ष्यते। मध्ये व्यवहारकाले ही यस्या सा तथा 1 घटादिषु वस्तुषु सचिदानन्दप्रतीत्या व्यवहारकालेऽपि प्रपञ्चकारण ब्रह्मानु- स्यूतसया भासमान अगत्कारणमिति सिद्धान्त । अनेनाचे- तनपरिणामारम्भादिवादा निष्प्रमाणतया युक्त्याधाभासक त्वेन निरस्ता वेदितव्या ॥ ॐ हींमध्यायै नम ॥ ह्रींशिखामणि । लाके यथा चूडामणि सर्वाङ्गरचिता भरणापक्षया तद्विजातीयप्रकाशसत्ताधानयवान् उत्तमान- स्थानविशेषे स्थापित महदैश्वर्यादि तद्वत पुरुषस्य झाप यति, तथा सर्वशब्दजालतद्वाच्यार्थभूतचिन्नडसबन्धरूप- प्रपञ्चवाचकातिसूक्ष्महीवर्णात्मकश्रीविद्याराजबीजस्य सत्य ज्ञानानन्दात्मकलक्ष्यार्थभूता सती हीबीजजापकाना सर्वार्थ प्रदानेन पारमैश्वर्य व्यखयतीति गुणयोगकृतनामेदम् । तथा च हीम शिखामणि परमतात्पर्येण झापयतीत्यर्थ ॥ ॐ हींशिखामणये नमः ॥