पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । बहुषु पक्षिषु आरण्यकेषु सत्स्वपि तस्या रूपध्वनिभ्या सुखतया दर्शनश्रवणादिजन्यप्रमोषसाधकतया उद्यानालक रिष्णुत्वम , तथा ह्रींकाररूपदेवताध्वने सचिदानन्दरूपत द्वाच्यार्थस्य च परमपुरुषार्थसाधकत्वेन अविशिष्टत्वेऽपि ब्र माविष्णुरुद्रादिमूर्तिषु उद्यानतरुवल्लिकक्षगुल्मादिवदुत्तमनीच देवतिर्थम्मनुष्यादिषु च मयूरीव स्वेच्छया सर्वव्यापकत्वेन तदात्मरूपतया शरीरन्द्रियप्राणाधाधारपरमप्रेमास्पदपरमा नन्दरूपप्रत्यग्गोचरावृत्तिव्याप्यतयैतद्वीजप्रकाश्या भवती त्यर्थ ॥ ॐ ह्रींकारोद्यानकेकिन्यै नमः ।। हीकारारण्यहरिणी हींकारावालवल्लरी । हीकारपञ्जरशुकी हींकाराङ्गणदीपिका ॥ होकारारण्यहरिणी । ह्रीकारवाच्यार्थैकदेशभूतमायावि द्यात कार्याणा बन्धरूपलया गहने व्याघ्रादीनामिव भयहे सूना सद्भावेन दुष्प्रवेशत्वरूपधर्ममाम्येन वीकारस्य अरण्यो पमितत्वम् । तथा च अरण्यमिव ह्रींकार इति सर्वत्रोपमा नोत्तरपदसमास । तत्रैव सति यथारण्यगतपुरुषस्य शीघ्र दृष्टिपथ गता हरिणी एणी व्याघ्राधभावनिश्चयेन तदधिगम फलप्राप्तिसाधनसामवगमयति धीरपुरुषस्य, तथा निरन्तरम