पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीमाध्यम् । तन्मन्त्रप्राप्त्या तज्जनकानि लोके दृष्टानि , पुष्परसश्च पृथिवीकारणभूतावक तन्मात्रस्वरूपमधुररसात्मकत्वात् पुष्पाणा फलजनक शक्तिज्ञा पको भवति , तथा ह्रींकारस्थापि सर्वजनकताशक्याधायकत दधिष्ठानसच्चिदानन्दपरब्रह्मस्वरूपा सती यथोक्तफलहेतुतया तदर्थरूपेण तद्वृत्तिर्भवतीति माध्वीसमा- नधर्मवत्त्वमस्या उपपथत इति विवेचनीयमिति यावत् ।। ॐ हींकारसुमनों नम ॥ ह्रींकारतरुमबरी । फलार्थिन स्वारूढजनान् पतनादि भ्य प्रतिबन्धकेभ्यस्तारयति पार प्रापयति फललाभेन स तोषयतीति तरु । ह्रींकारस्य कल्पादितरुदृष्टान्तीकृत । प्रेक्षावता सवादिप्रवृत्तिजनकत्वेन शाखोपशाखामगता पुष्प मसरी फलकारणयोग्यता झापयतीव पुरुषार्थार्थिना अस शयप्रवर्तकत्वेन प्रत्यक्स्वरूपा सती गुरूपदिष्टमन्त्रदेवतात्म कतया मन्त्रोपासनायामभिमुखीकरणेन पुरुषार्थान प्राप यतीति मञ्जरीसादृश्य प्राप्त परदेवताया इति विवेचनी यम् ॥ ॐ ह्रींकारतरुमञ्ज नम ॥ सकाराख्या ममरसा सकलागमसस्तुता। सर्ववेदान्ततात्पर्यभूमि. सदसदाश्रया । सकाराख्या । सकारयुक्ता श्रीविद्यानाभिका आल्या