पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
ललितात्रिशतीभाष्यम् ।

 सकलाधिष्ठानरूपा। 'अथात आदेशो नेति नेति' 'नेह नानास्ति किंचन' इत्यादिनिषेधश्रुतिभ्यः प्रतिपन्ना। 'सर्वं खल्विदं ब्रह्म' इत्यादिबाधायाः सामानाधिकरण्यमवगम्यते । कार्यस्य कारणाभेदज्ञानं बाधा । तद्भिन्नता- ज्ञानस्य भ्रमरूपत्वात् । तथा च श्रुतिनिषेधस्थावध्यपेक्षायाः प्रकृत्यादीनामपि तत्त्वज्ञानेन निवृत्तौ भूतपूर्वगत्या सर्वाधिष्ठानत्वेन अनुभूयते इति भावः ॥ ॐ सकलाधिष्ठानरूपायै नमः ॥

 सत्यरूपा । सत्यं जडानृतपरिच्छिन्नव्यावृत्तत्वं सचिदानन्दरूपं यस्याः सा तथा। परिणामवादमाश्रित्य सत् अपरोक्षज्ञानयोग्यानि पृथिव्यप्तेजांसि, त्यत्तु परोक्षज्ञानविषया नित्यानुमेया इत्यर्थः , 'सच्च त्यच्चाभवत्' इति श्रुतेः । सत्यं रूपं यस्याः सा तथा ।। ॐ सत्यरूपायै नमः।

 समाकृति । समा अभिन्ना सच्चिदानन्दरूपैकरसा आकृतिः मूर्तिः स्वरूपं यस्याः सा तथोक्ता । समा अन्यूनानतिरिक्ता यथाशास्त्रप्रमाणं मूर्तिविग्रहो यस्याः सेति वा । समा सदाशिवेन गुणसौन्दर्यबलवीर्ययशोगाम्भीर्यधैर्येङ्गितादिपरिज्ञानसर्वज्ञत्वादिबहुलधर्मविशेषैः मूर्तिर्यस्याः सेति वा। चतुर्विधभूतग्रामेषु तत्त्प्राब्धानुसारेण