पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । लकारिणी लब्धरूपा लब्धधीर्लब्धवाल्छिता। लब्धपापमनोदूरा लब्धाहंकारदुर्गमा । लकारिणी तृतीयखण्डतृतीयवर्णत्वेन वाचकतया अस्या अस्तीति सा तथा ॥ ॐ लकारिण्यै नमः ॥ लन्धरूपा । रूप्यते ज्ञाप्यत एभिरिति रूपाणि लक्षणानि स्वरूपतटस्थभेदेन सगुणनिर्गुणपराणि, लब्धानि यया सा सथा । रूप्यते ज्ञाप्यत इति रूपम् अर्थः , उपलक्षण नाम्नोऽपि, लब्धे नामरूपे यया सा तथा । आदौ स्वयं मायोपाधिना शब्दार्थभावमापद्य पश्चात् न्याकरणमकरोदिति भावः ।। ॐ लब्धरूयायै नमः ॥ लन्धधीः । निश्चयात्मिका सविकल्पनामका अन्तःकरणवृत्तयो धियः , ता उपाधित्वेन प्रतिबिम्बाधिष्ठानत्वेन लब्धा यया सा तथा । वृत्त्यारूढ चैतन्य ज्ञानमिति वा, चैतन्यव्याप्ता वृत्तिर्वेति वेदान्तसिद्धान्तः । जडानां विषयाणां ग्रहणे तादृशीनां वृत्तीनां असामर्थ्ये जगदान्ध्यप्रसङ्गेन स्वरूपचैतन्यमन्तःकरणाद्युपहितफलचैतन्यतया प्रकाशयति । तथा च ‘ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरिहेष्यते' इति न्यायेन लब्धा धीः तत्त्वमस्यादिमहावाक्यश्रवणजन्यवृत्तिव्याप्तिर्यया