पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०

पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

॥ श्रीविष्णुभुजंगप्रयातस्तोत्रम् ॥

चिदंशं विभुं निर्मलं निर्विकल्पं
 निरीहं निराकारमोंकारगम्यम् |
गुणातीतमव्यक्तमेकं तुरीयं
 परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १ ॥

विशुद्धं शिवं शान्तमाद्यन्तशून्यं
 जगज्जीवनं ज्योतिरानन्दरूपम् ।
अदिग्देशकालव्यवच्छेदनीयं
 त्रयी वक्ति यं वेद तस्मै नमस्ते ॥ २ ॥

महायागपीठे परिभ्राजमाने
 धरण्यादितत्त्वात्मके शक्तियुक्ते ।
गुणाहस्करे वह्निबिम्बार्धमध्ये
 समासीनमाेंकर्णिकेऽष्टाक्षराब्जे ॥ ३ ॥