पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । शब्द समीपदेशार्थक ।ब्रह्मण्यध्यस्तमायासमीपदेशक तत्पदार्थप्रतिबिम्बितमविद्योपाधिकचैतन्य जीवशब्दवान् यमुपशब्दार्थ लक्षणया प्रतिपाद्यते । नि शब्द षद् इति पदस्य विशेषणम् । सत् इति पद सदनगत्यवसादनेषु भवति । तथा च उपशब्दवाच्यो जीव अविद्या निहत्य त्यक्त्वाब्रह्मस्वरूपेण निषीदति वर्तत इति उपनिषदित्येकोऽर्थः । जीव ब्रह्म स्वरूपत्वेन निगच्छति जानातीत्यन्योऽर्थः । जीव ब्रह्मस्वरूपेण अवसीदति परिसमाप्नोतीति तृतीयोऽर्थः । एवमुपनिषच्छब्दस्य ब्रह्मविद्यावाचकत्वेन प्रसिद्धस्य तद्वाचकवेदभागे लक्षणवत्त्वेऽप्युपनिषन्छब्दवाच्यो भवति । तथा च ह्रींकार एव वेद तस्य उपानषत्प्रधानभूता ब्रह्मविद्येत्यर्थः । ॐ ह्रींकारवेदोपनिषदे नमः ॥ ह्रींकाराध्वरदक्षिणा । ह्रींकार एव अध्वर यज्ञ दक्षिणा समापिसाधनम् , दक्षिणाया दत्ताया यज्ञसमाप्तिदर्शनात् । ह्रींकारस्यापि जप यजनात्मकतया अध्वान राति गच्छतीत्यध्वर मार्गसाधक इत्यर्थ । दक्षिणापद फलबाचि ऋत्विग्व्यापाराणा दक्षिणाफलत्वदर्शनात् । ह्रींकाराध्वरस्य हींकारजपयज्ञस्य दक्षिणा फलसाधनीभूतपुरुषार्थरूपा । अथवा ह्रींकाराध्वरस्य दक्षिणा पत्नी,मखस्य