पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३३

पुटमेतत् सुपुष्टितम्
२१
श्रीविष्णुभुजगप्रयातस्तोत्रम् ।


कफव्याहतोष्णोल्बणश्वासवेग-
 व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसंख्यामवस्थां
 बिभेमि प्रभो किं करोमि प्रसीद ॥ १२ ॥

लपन्नच्युतानन्त गोविन्द विष्णो
 मुरारे हरे नाथ नारायणेति ।
यथानुस्मरिष्यामि भक्त्या भवन्तं
 तथा मे दयाशील देव प्रसीद ॥ १३ ॥

भुजंगप्रयातं पठेद्यस्तु भक्त्या
 समाधाय चित्ते भवन्तं मुरारे ।
स मोहं विहायाशु युष्मत्प्रसादा-
 त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥ १४ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग-
वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
श्रीविष्णुभुजंगप्रयातस्तोत्रं सम्पूर्णम् ॥