पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५२

पुटमेतत् सुपुष्टितम्
४०
अच्युताष्टकम् ।


कृष्ण गोविन्द हे राम नारायण
 श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
 द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥

राक्षसक्षोभितः सीतया शोभितो
 दण्डकारण्यभूपुण्यताकारणम् ।
लक्ष्मणेनान्वितो वानरैः सेवितो-
 ऽगस्त्यसंपूजितो राघवः पातु माम् ॥ ५ ॥

धेनुकारिष्टहानिष्टकृद्द्वेषिणां
 केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
 बालगोपालकः पातु मां सर्वदा ॥ ६ ॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं
 प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
 लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥