पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५३

पुटमेतत् सुपुष्टितम्
४१
अच्युताष्टकम् ।


कुञ्चितैः कुन्तलैर्भ्राजमानाननं
 रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
 किंकिणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥

अच्युतस्याष्टकं यः पठेदिष्टदं
 प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं वेद्यविश्वंभरं
 तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥


इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

अच्युताष्टकं सम्पूर्णम् ॥