पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५७

पुटमेतत् सुपुष्टितम्

॥श्री ॥

॥ हरिस्तुतिः ॥


स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं
 यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।
यस्मिन्दृष्टे नश्यति तत्संसृतिचक्रं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १ ॥

यस्यैकांशादित्थमशेषं जगदेत-
 त्प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।
येन व्याप्तं येन विबुद्धं सुखदुःखै-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २ ॥

सर्वज्ञो यो यश्च हि सर्वः सकलो यो
 यश्चानन्दोऽनन्तगुणो यो गुणधामा ।
यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३ ॥