पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/६१

पुटमेतत् सुपुष्टितम्
४९
हरिस्तुतिः ।

जाग्रदृष्ट्वा स्थूलपदार्थानथ मायां
 दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥

पश्यञ्शुद्धोऽप्यक्षर एको गुणभेदा-
 नानाकारान्स्फाटिकवद्भाति विचित्रः ।
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥

ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा-
 विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
एकं सन्तं यं बहुधाहुर्मतिभेदा
 त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥

सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
 शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥