पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/६५

पुटमेतत् सुपुष्टितम्
५३
हरिस्तुति ।

विज्ञानांशो यस्य सतः शक्त्यधिरूढो
 बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।
नैवान्तःस्थं बुध्यति यं बोधयितारं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥

कोऽयं देहे देव इतीत्थं सुविचार्य
 ज्ञाता श्रोता मन्तयिता चैष हि देवः ।
इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥

को ह्येवान्यादात्मनि न स्यादयमेष
 ह्येवानन्दः प्राणिति चापानिति चेति ।
इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा
 तं संसारध्वान्तविनाशं हरिमीडे ॥३४ ॥

प्राणो वाहं वाक्छ्रवणादीनि मनो वा
 बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥