पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७१

पुटमेतत् सुपुष्टितम्

॥ श्रीः ।।

॥ भगवन्मानसपूजा ॥


हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः
 सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
 वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥

पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगव-
 न्मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।
सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलै-
 र्गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥

त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं
 भजस्वेमं पञ्चामृतफलरसाप्लावमघहन् ।
द्युनद्याः कालिनद्या अपि कनककुम्भस्थितमिदं
 जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥