पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७९

पुटमेतत् सुपुष्टितम्
६७
मोहमुद्गरः ।

भगवद्गीता किञ्चिदधीता
 गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
 क्रियते तस्य यमेन न चर्चा ॥ २० ॥

पुनरपि जननं पुनरपि मरणं
 पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
 कृपयापारे पाहि मुरारे ॥ २१ ॥

रथ्याकर्पटविरचितकन्थः
 पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
 रमते बालोन्मत्तवदेव ॥ २२ ॥

कस्त्वं कोऽहं कुत आयातः
 का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
 विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥