पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/९५

पुटमेतत् सुपुष्टितम्
८३
मीनाक्षीस्तोत्रम् ।


शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
 नित्यानन्दमयी निरञ्जनमयी तत्त्वमयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
 सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥ ८ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभग
वत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
मीनाक्षीस्तोत्रं सम्पूर्णम् ॥