पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/९७

पुटमेतत् सुपुष्टितम्
left
८५
दक्षिणामूर्तिस्तोत्रम् ।


अपारकारुण्यसुधातरङ्गै-
 रपाङ्गपातैरवलोकयन्तम् ।
कठोरसंसारनिदाघतप्ता-
 न्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

ममाद्यदेवो वटमूलवासी
 कृपाविशेषात्कृतसन्निधानः ।
ओंकाररूपामुपदिश्य विद्या-
 माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥

कलाभिरिन्दोरिव कल्पिताङ्ग-
 मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलोकये देशिकमप्रमेय-
 मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

स्वदक्षजानुस्थितवामपादं
 पादोदरालङ्कृतयोगपट्टम् ।
अपस्मृतेराहितपादमङ्गे
 प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥