पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११२

पुटमेतत् सुपुष्टितम्
१००
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।


प्रज्ञामात्रं प्रापितसंविन्निजभक्तं
 प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥

यस्यान्ज्ञानादेव नृणां संसृतिबोधो
 यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥२१॥

छन्नेऽविद्यारूपपटेनैव च विश्वं
 यत्राध्यस्तं जीवपरेशत्वमपीदम।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ।।

स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
 प्राणश्चेतः सर्वगतो यः सकलात्मा ।
कूटस्थो य: केवलसन्चित्सुखरूप-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि || २३ ॥