पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११८

पुटमेतत् सुपुष्टितम्
१०६
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।

ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैः
 श्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३ ॥

मन्दारमल्लीकरवीरमाधवी.
 पुंनागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलै-
 राधत्स्व मृत्युंजय पाद्यमुत्तमम् ॥ ४ ॥

सुगन्धपुष्पप्रकरैः सुवासितै-
 र्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरा-
 द्गृहाण मृत्युंजय सर्ववन्दित ॥ ५ ॥

हिमाम्बुवासितैस्तोयैः शीतलैरविपावनैः ।
मृत्युंजय महादेव शुद्धाचमनमाचर ॥ ६ ॥

गुडदधिसहितं मधुप्रकीर्णं
 सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
 त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७॥