पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११९

पुटमेतत् सुपुष्टितम्
१०७
श्रीमृत्युंजयभानसिकपूजास्तोत्रम् ।


पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो ॥ ८॥

जगत्रयोख्यात समस्ततीर्थ-
 समाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं
 मृत्युंजयानन्तगुणाभिराम ॥ ९॥

आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युंजय प्रभो ॥ १० ॥

नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युंजय सुधारय ॥ ११॥

विशुद्धमुक्ताफलजालरम्यं
 मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्र-
 माधत्स्व मृत्युंजय भक्तिगम्य ॥ १२ ॥

श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
 कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।