पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२३

पुटमेतत् सुपुष्टितम्
१११
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।

एलामरीचिमिलितं
मृत्युंजय देव भुङ्क्ष्व परमान्नम् ॥ २७ ॥

रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुम-
 त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
 श्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम ॥ २८ ॥

मनोज्ञरम्भावनखण्डखण्डिता-
 न्रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च
 गृहाण मृत्युंजय लोकवन्द्य ॥ २९ ।।

हिङ्गूजीरकसहितं
 विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाँल्लवणयुता-
 न्मृत्युंजय तेऽर्पयामि जगदीश ॥ ३० ॥

एलाशुण्ठीसहीतं
 दध्यन्नं चारुहेमपात्रस्थम् ।