पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२४

पुटमेतत् सुपुष्टितम्
११२
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।

अमृतप्रतिनिधिमाढयं
 मृत्युंजय भुज्यतां त्रिलोकेश ॥ ३१ ॥

जम्बीरनीराञ्चितशृङ्गाबेरं
 मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व
 मृत्युंजय श्रीकरुणासमुद्र ॥ ३२ ॥

नागररामठयुक्तं
 सुललितजम्बीरनीरसंपूर्णम् ।
मथितं सैन्धवसहितं
 पिब हर मृत्युंजय ऋतुध्वंसिन् ॥ ३३ ॥

मन्दारहेमाम्बुजगन्धयुक्तै-
 र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युंजय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ॥ ३४ ॥

गगनधुनीविमलजलै-
 र्मृत्युंजय पद्मरागपात्रगतैः ।