पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२६

पुटमेतत् सुपुष्टितम्
११४
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।


पुंनागनीलोत्पलकुन्दजाजी-
 मन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
 मृत्युंजयाङ्घ्रौ विनिवेशयामि ॥ ४० ॥

पदे पदे सर्वतमोनिकृन्तनं
 पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा
 करोमि मृत्युंजय रक्ष रक्ष माम ॥ ४१ ॥

नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
 नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
 नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥४२॥

संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
 नित्यं पुत्रकलत्रवित्तविलसत्पाशैनिंबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्टया विभो
 श्रीमृत्युंजय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३ ॥