पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३

पुटमेतत् सुपुष्टितम्
गणेशभुजंगम् ।


चिदानन्दसान्द्राय शान्ताय तुभ्यं
 नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनन्तलीलाय कैवल्यभासे
 नमो विश्वबीज प्रसीदेशसूनो ॥ ८ ॥

इमं सुस्तवं प्रातरुत्थाय भक्त्या
 पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिध्यन्ति वाचो
 गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ ९ ॥