पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३९

पुटमेतत् सुपुष्टितम्

॥श्रीः॥

॥ सौन्दर्यलहरी॥

शिवः शक्त्या युक्तो यदि भवति शक्त: प्रभवितुं
 न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
 प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं
 विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
 हर: संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
 जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
 निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ।। ३ ॥