पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४५

पुटमेतत् सुपुष्टितम्
१३१
सौन्दर्यलहरी ।


जगत्सूते धाता हरिरवति रुद्रः क्षपयते
   तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
   स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४ ॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
   भवेत्पूजा पूजा तव चरणयोर्या विरचिता ।
तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
   स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥

विरिश्चि: पञ्चत्वं व्रजति हरिराप्नोति विरतिं
   विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
   महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥

जपो जल्प: शिल्पं सकलमपि मुद्राविरचना
   गति: प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणाम: संवेश: सुखमखिलमात्मार्पणदृशा
   सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥