पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१५०

पुटमेतत् सुपुष्टितम्
१३६
सौन्दर्यलहरी ।


तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
 परीवाहः स्रोत:सरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
 द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम ॥ ४४ ॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
 परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे
 सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥

ललाटं लावण्यद्युतिविमलमाभाति तब य-
 द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथ:
 सुधालेपस्यूति: परिणमति राकाहिमकरः ॥ ४६ ॥

भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
 त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
 प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥