पुटमेतत् सुपुष्टितम्
१४०
सौन्दर्यलहरी ।
सरस्वत्या: सूक्तीरमृतलहरीकौशलहरी:
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते
॥ ६० ॥
असौं नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम ।
वहत्यन्तर्मुक्ता: शिशिरकरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः
॥ ६१ ॥
प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचे:
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया
॥ ६२ ॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचय:
पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया
॥ ६३ ॥