पुटमेतत् सुपुष्टितम्
१४५
सौन्दर्यलहरी।
कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्रं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव
॥ ८०॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भार: स्थगयति लधुत्वं नयति च
॥ ८१ ॥
करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि
॥ ८२ ॥
पराजेतुं रुद्रं द्विगुणशरगभौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्ने दृश्यन्ते दशशरफला: पादयुगली-
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः
॥ ८३ ॥