पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१६६

पुटमेतत् सुपुष्टितम्
१५२
देवीभुजंगस्तोत्रम् ।

विनोदाय चैतन्यमेकं विभज्य
 द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
 पुनर्जीवमेनं शिवं वा करोषि ॥ ४ ॥

समाकुञ्च्य मूलं हृदि न्यस्य वायुं
 मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
 भवन्त्यम्ब जीवा: शिवत्वेन केचित् ॥ ५ ॥

शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
 सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
 कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥६॥

शरीरे धनेऽपत्यवर्गे कलत्रे
 विरक्तस्य सद्देशिकादिष्टबुद्धेः ।।
यदाकस्मिकं ज्योतिरानन्दरूपं
 समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ७ ॥