पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७७

पुटमेतत् सुपुष्टितम्
१६३
आनन्दलहरी।

वृषो वृद्धो यानं विषमशनमाशा निवसनं
 श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।
समग्रा सामग्री जगति विदितैव स्मररिपो-
 र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
 श्मशानेष्वासीनः कृतभसितलेप: पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
 भवत्याः संगत्याः फलमिति च कल्याणि कलये ।। १७॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
 भियैवासीद्गङ्गा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
 प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिश: ॥ १८ ॥

विशालश्रीखण्डद्रवमृगमदाकीर्णधुसृण-
 प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
 समाधत्ते सृष्टिं विबुधपुरपङ्केरूहदृशाम् ।। १९ ॥