पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७९

पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥


वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥ १॥

अकिंचित्करकर्मभ्य: प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्य: स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

अकारादिक्षकारान्तवर्णावयवशालिनी।
वीणापुस्तकहस्ताव्यात्प्रणो देवी सरस्वती ।। ३ ।।

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती ।। ४ ।।

उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मात: सन्ध्याविधे सरस्वती ॥५॥